
1262
कृष्ण स्तोत्र
करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि ॥ १ ॥
संहृत्य लोकान् वटपत्रमध्ये
शयानमाद्यन्तविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं
बालं मुकुन्दं मनसा स्मरामि ॥ २ ॥
इन्दीवरश्यामलकोमलाङ्गं
इन्द्रादिदेवार्चितपादपद्मम् ।
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मरामि ॥ ३ ॥
लम्बालकं लम्बितहारयष्टिं
शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् ।
बिम्बाधरं चारुविशालनेत्रं
बालं मुकुन्दं मनसा स्मरामि ॥ ४ ॥
शिक्ये निधायाद्य पयोदधीनि
बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुन्दं मनसा स्मरामि ॥ ५ ॥
कलिन्दजान्तः स्थितकालियस्य
फणाग्ररङ्गे नटनप्रियं तम् ।
तत्पुच्छहस्तं शरदिन्दुवक्त्रं
बालं मुकुन्दं मनसा स्मरामि ॥ ६ ॥
उलूखले बद्धमुदारशौर्यं
उत्तुङ्गयुग्मार्जुनभङ्गलीलम् ।
उत्फुल्लपद्मायतचारुनेत्रं
बालं मुकुन्दं मनसा स्मरामि ॥ ७ ॥
आलोक्य मातुर्मुखमादरेण
स्तन्यं पिबन्तं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनन्तरूपं
बालं मुकुन्दं मनसा स्मरामि ॥ ८ ॥
इति श्री बालमुकुन्दाष्टकम् ॥
