
1255
कृष्ण स्तोत्र
श्रीकृष्ण गोकुलाधीश नन्दगोपतनूद्भव ।
यशोदागर्भसम्भूत मयि दीने कृपां कुरु ॥ १ ॥
व्रजानन्द व्रजावास व्रजस्त्रीहृदयस्थित ।
व्रजलीलाकृते नित्यं मयि दीने कृपां कुरु ॥ २ ॥
श्रीभागवतभावार्थरसात्मन् रसिकात्मक ।
नामलीलाविलासार्थं मयि दीने कृपां कुरु ॥ ३ ॥
यशोदाहृदयानन्द विहिताङ्गणरिङ्गण ।
अलकावृतवक्त्राब्ज मयि दीने कृपां कुरु ॥ ४ ॥
विरहार्तिव्रतस्थात्मन् गुणगानश्रुतिप्रिय ।
महादैन्यदयोद्भूत मयि दीने कृपां कुरु ॥ ५ ॥
अत्यासक्तजनासक्त परोक्षभजनप्रिय ।
परमानन्दसन्दोह मयि दीने कृपां कुरु ॥ ६ ॥
निरोधशुद्धहृदयदयितागीतमोहित ।
आत्यन्तिकवियोगात्मन् मयि दीने कृपां कुरु ॥ ७ ॥
स्वाचार्यहृदयस्थायिलीलाशतयुत प्रभो ।
सर्वथा शरणं याते मयि दीने कृपां कुरु ॥ ८ ॥
इति श्रीहरिदास विरचितं दैन्याष्टकम् ॥
