
1256
कृष्ण स्तोत्र
देवा ऊचुः ।
जगद्योनिरयोनिस्त्वमनन्तोऽव्यय एव च ।
ज्योतिः स्वरूपो ह्यनघः सगुणो निर्गुणो महान् ॥ १ ॥
भक्तानुरोधात् साकारो निराकारो निरङ्कुशः ।
निर्व्यूहो निखिलाधारो निःशङ्को निरुपद्रवः ॥ २ ॥
निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः ।
स्वात्मारामः पूर्णकामो निमिषो नित्य एव च ॥ ३ ॥
स्वेच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः ।
सुखदो दुःखदो दुर्गो दुर्जनान्तक एव च ॥ ४ ॥
सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः ।
वेदहेतुश्च वेदश्च वेदाङ्गो वेदविद्विभुः ॥ ५ ॥
इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः ।
हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६ ॥
द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् ।
दृढां भक्तिं हरेर्दास्यं लभते वाञ्छितं फलम् ॥ ७ ॥
इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः ।
बभूव जलवृष्टिश्च निश्चेष्टा मथुरापुरी ॥ ८ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे सप्तमोऽध्याये देवकृत गर्भस्तुतिः ।
