
1252
कृष्ण स्तोत्र
भक्ताभिलाषाचरितानुसारी
दुग्धादिचौर्येण यशोविसारी ।
कुमारतानन्दितघोषनारी
मम प्रभुः श्रीगिरिराजधारी ॥ १ ॥
व्रजाङ्गनावृन्दसदाविहारी
अङ्गैर्गुहाङ्गारतमोऽपहारी ।
क्रीडारसावेशतमोभिसारी
मम प्रभुः श्रीगिरिराजधारी ॥ २ ॥
वेणुस्वनानन्दितपन्नगारी
रसातलानृत्यपदप्रचारी ।
क्रीडन् वयस्याकृतिदैत्यमारी
मम प्रभुः श्रीगिरिराजधारी ॥ ३ ॥
पुलिन्ददाराहितशम्बरारी
रमासदोदारदयाप्रकारी ।
गोवर्धने कन्दफलोपहारी
मम प्रभुः श्रीगिरिराजधारी ॥ ४ ॥
कलिन्दजाकूलदुकूलहारी
कुमारिकाकामकलावितारी ।
वृन्दावने गोधनवृन्दचारी
मम प्रभुः श्रीगिरिराजधारी ॥ ५ ॥
व्रजेन्द्रसर्वाधिकशर्मकारी
महेन्द्रगर्वाधिकगर्वहारी ।
वृन्दावने कन्दफलोपहारी
मम प्रभुः श्रीगिरिराजधारी ॥ ६ ॥
मनःकलानाथतमोविदारी
वंशीरवाकारिततत्कुमारिः ।
रासोत्सवोद्वेल्लरसाब्धिसारी
मम प्रभुः श्रीगिरिराजधारी ॥ ७ ॥
मत्तद्विपोद्दामगतानुकारी
लुठत्प्रसूनाप्रपदीनहारी ।
रामारसस्पर्शकरप्रसारी
मम प्रभुः श्रीगिरिराजधारी ॥ ८ ॥
इति श्रीवल्लभाचार्य विरचितं श्री गिरिराजधार्यष्टकम् ।
