
1254
कृष्ण स्तोत्र
येन मीनस्वरूपेण वेदाः संरक्षिताः पुरा ।
स एव वेदसंहर्ता गोपालः शरणं मम ॥ १ ॥
पृष्ठे यः कूर्मरूपेण दधार धरणीतलम् ।
स एव सृष्टिसंहर्ता गोपालः शरणं मम ॥ २ ॥
वराहरूपः सम्भूत्वा दंष्टाग्रे यो महीं दधौ ।
स भूमिभारहरणो गोपालः शरणं मम ॥ ३ ॥
जग्राह यो नृसिंहस्य रूपं प्रह्लादहेतवे ।
स योद्धुमुद्यतः सम्यग्गोपालः शरणं मम ॥ ४ ॥
येन वामनरूपेण वञ्चितो बलिभूमिपः ।
स एव गोपनारीभिर्गोपालः शरणं मम ॥ ५ ॥
येनेयं जामदग्न्येन पृथ्वी निःक्षत्त्रिया कृता ।
स एव क्षत्त्रियहितो गोपालः शरणं मम ॥ ६ ॥
दशास्यो दाशरथिना येन रामेण मारितः ।
स पञ्चास्यप्राप्तबलो गोपालः शरणं मम ॥ ७ ॥
कालिन्दी कर्षिता येन रामरूपेण कौतुकात् ।
तज्जलक्रीडनासक्तो गोपालः शरणं मम ॥ ८ ॥
येन बौद्धस्वरूपेण लोकाः पाखण्डमार्गगाः ।
स एव पाखण्डहरो गोपालः शरणं मम ॥ ९ ॥
गमिष्यन्ति क्षयं येन राक्षसाः कल्किरूपिणा ।
स राक्षसं गतेर्दाता गोपालः शरणं मम ॥ १० ॥
गोवर्धनो गिरिर्येन स्थापितः कञ्जवत्करे ।
उलूखलेन सहितो गोपालः शरणं मम ॥ ११ ॥
एकादशस्वीयधाम्नामावलिं यो लिखेद्धृदि ।
कृष्णप्रसादयुक्तश्च स याति परमां गतिम् ॥ १२ ॥
इति श्रीरघुनाथाचार्य विरचितं श्री गोपाल स्तवः ॥
