
1257
कृष्ण स्तोत्र
नवाम्बुदानीकमनोहराय
प्रफुल्लराजीवविलोचनाय ।
वेणुस्वनैर्मोदितगोकुलाय
नमोऽस्तु गोपीजनवल्लभाय ॥ १ ॥
किरीटकेयूरविभूषिताय
ग्रैवेयमालामणिरञ्जिताय ।
स्फुरच्चलत्काञ्चनकुण्डलाय
नमोऽस्तु गोपीजनवल्लभाय ॥ २ ॥
दिव्याङ्गनाबृन्दनिषेविताय
स्मितप्रभाचारुमुखाम्बुजाय ।
त्रैलोक्यसम्मोहनसुन्दराय
नमोऽस्तु गोपीजनवल्लभाय ॥ ३ ॥
रत्नादिमूलालयसङ्गताय
कल्पद्रुमच्छायसमाश्रिताय ।
हेमस्फुरन्मण्डलमध्यगाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ४ ॥
श्रीवत्सरोमावलिरञ्जिताय
वक्षःस्थले कौस्तुभभूषिताय ।
सरोजकिञ्जल्कनिभांशुकाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ५ ॥
दिव्याङ्गुलीयाङ्गुलिरञ्जिताय
मयूरपिञ्छच्छविशोभिताय ।
वन्यस्रजालङ्कृतविग्रहाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ६ ॥
मुनीन्द्रवृन्दैरभिसंस्तुताय
क्षरत्पयोगोकुलसङ्कुलाय ।
धर्मार्थकामामृतसाधकाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ७ ॥
मनस्तमस्तोमदिवाकराय
भक्तस्य चिन्तामणिसाधकाय ।
अशेषदुःखामयभेषजाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ८ ॥
इति श्रीवह्निसूनु विरचितं श्री गोपीजनवल्लभाष्टकम् ।
