
1253
कृष्ण स्तोत्र
सरोजनेत्राय कृपायुताय
मन्दारमालापरिभूषिताय ।
उदारहासाय लसन्मुखाय
नमोऽस्तु गोपीजनवल्लभाय ॥ १ ॥
आनन्दनन्दादिकदायकाय
बकीबकप्राणविनाशकाय ।
मृगेन्द्रहस्ताग्रजभूषणाय
नमोऽस्तु गोपीजनवल्लभाय ॥ २ ॥
गोपाललीलाकृतकौतुकाय
गोपालकाजीवनजीवनाय ।
भक्तैकगम्याय नवप्रियाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ३ ॥
मन्थानभाण्डाखिलभञ्जनाय
हैय्यङ्गवीनाशनरञ्जनाय ।
गोस्वादुदुग्धामृतपोषिताय
नमोऽस्तु गोपीजनवल्लभाय ॥ ४ ॥
कलिन्दजाकूलकुतूहलाय
किशोररूपाय मनोहराय ।
पिशङ्गवस्त्राय नरोत्तमाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ५ ॥
धाराधराभाय धराधराय
शृङ्गारहारावलिशोभिताय ।
समस्तगर्गोक्तिसुलक्षणाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ६ ॥
इभेन्द्रकुम्भस्थलखण्डनाय
विदेशबृन्दावनमण्डनाय ।
हंसाय कंसासुरमर्दनाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ७ ॥
श्रीदेवकीसूनुविमोक्षणाय
क्षत्तोद्धवाक्रूरवरप्रदाय ।
गदासिशङ्खाब्जचतुर्भुजाय
नमोऽस्तु गोपीजनवल्लभाय ॥ ८ ॥
इति श्रीहरिदास कृत श्री गोपीजनवल्लभाष्टकम् ॥
