
1256
कृष्ण स्तोत्र
महानीलमेघातिभव्यं सुहासं
शिवब्रह्मदेवादिभिः संस्तुतं च ।
रमामन्दिरं देवनन्दापदाहं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ १ ॥
रसं वेदवेदान्तवेद्यं दुरापं
सुगम्यं तदीयादिभिर्दानवघ्नम् ।
चलत्कुण्डलं सोमवंशप्रदीपं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ २ ॥
यशोदादिसंलालितं पूर्णकामं
दृशो रञ्जनं प्राकृतस्थस्वरूपम् ।
दिनान्ते समायान्तमेकान्तभक्तै-
-र्भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ३ ॥
कृपादृष्टिसम्पातसिक्तस्वकुञ्जं
तदन्तःस्थितस्वीयसम्यग्दशादम् ।
पुनस्तत्र तैः सत्कृतैकान्तलीलं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ४ ॥
गृहे गोपिकाभिर्धृते चौर्यकाले
तदक्ष्णोश्च निक्षिप्य दुग्धं चलन्तम् ।
तदा तद्वियोगादिसम्पत्तिकारं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ५ ॥
चलत्कौस्तुभव्याप्तवक्षःप्रदेशं
महावैजयन्तीलसत्पादयुग्मम् ।
सुकस्तूरिकादीप्तभालप्रदेशं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ६ ॥
गवां दोहने दृष्टराधामुखाब्जं
तदानीं च तन्मेलनव्यग्रचित्तम् ।
समुत्पन्नतन्मानसैकान्तभावं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ७ ॥
अदः कृष्णचन्द्राष्टकं प्रेमयुक्तः
पठेत्कृष्णसान्निध्यमाप्नोति नित्यम् ।
कलौ यः स संसारदुःखातिरिक्तं
प्रयात्येव विष्णोः पदं निर्भयं तत् ॥ ८ ॥
इति श्रीरघुनाथप्रभु विरचितं श्री कृष्णचन्द्राष्टकम् ॥
