
1252
कृष्ण स्तोत्र
शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः ।
अनन्तस्याप्रमेयस्य नामद्वादशकं स्तवम् ॥ १ ॥
अर्जुनाय पुरा गीतं गोपालेन महात्मना ।
द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ ॥ २ ॥
ध्यानम् –
जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरम् ।
सकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥ ४ ॥
स्तोत्रम् –
प्रथमं तु हरिं विद्याद्द्वितीयं केशवं तथा ।
तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा ॥ ५ ॥
पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनम् ।
सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥ ६ ॥
नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा ॥ ७ ॥
एतद्द्वादशनामानि मया प्रोक्तानि फल्गुन ।
कालत्रये पठेद्यस्तु तस्य पुण्यफलं शृणु ॥ ८ ॥
चान्द्रायणसहस्रस्य कन्यादानशतस्य च ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ९ ॥
इति श्री गोपाल द्वादशनाम स्तोत्रम् ॥
