
1255
देवी स्तोत्र
विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा
निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा ।
अखण्डगण्डदण्डमुण्डमण्डलीविमण्डिता
प्रचण्डचण्डरश्मिरश्मिराशिशोभिता शिवा ॥ १ ॥
अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी
प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी ।
तदन्धकान्तकान्तकप्रियेशकान्तकान्तका
मुरारिकामचारिकाममारिधारिणी शिवा ॥ २ ॥
अशेषवेषशून्यदेशभर्तृकेशशोभिता
गणेशदेवतेशशेषनिर्निमेषवीक्षिता ।
जितस्वशिञ्जिताऽलिकुञ्जपुञ्जमञ्जुगुञ्जिता
समस्तमस्तकस्थिता निरस्तकामकस्तवा ॥ ३ ॥
ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा
मुदा बुधाः सुधां विहाय धावमानमानसाः ।
अधीनदीनहीनवारिहीनमीनजीवना
ददातु शम्प्रदाऽनिशं वशंवदार्थमाशिषम् ॥ ४ ॥
विलोललोचनाञ्चितोचितैश्चिता सदा गुणै-
-रपास्यदास्यमेवमास्यहास्यलास्यकारिणी ।
निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी ॥ ५ ॥
इति श्रीमच्छङ्कराचार्य विरचितं श्री पार्वती पञ्चकम् ।
