
1257
कृष्ण स्तोत्र
यः श्रीगोवर्धनाद्रिं सकलसुरपतिं त्रस्तगोगोपवृन्दं
स्वीयं संरक्षितुं चेत्यमरसुखकरं मोहयन् सन्दधार ।
तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ १ ॥
यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान्
किं वाऽपूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच ।
आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन् सर्वकामान्
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ २ ॥
येन प्रोद्यत् प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं
तीर्त्वा पारं तदीयं जगदखिलनृणां दुस्तरं चेति जग्मुः ।
तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ३ ॥
यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि-
-र्दत्तं तद्भावपूर्तौ विनिहितहृदयः सत्यमेवं तिरोधात् ।
मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाक्रान्तगण्डः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ४ ॥
यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः
संसारार्तेर्विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव ।
इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ५ ॥
यस्य श्रीनन्दसूनोर्व्रजयुवतिजनाश्चागता भर्तृपुत्रां-
-स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे ।
रन्तुं रासादिलीला मनसिजदलिता वेणुनादं च रम्यं
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ६ ॥
यस्मिन् दृष्टे समस्ते जगति युवतयः प्राणनाथव्रता या-
-स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः ।
तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ७ ॥
यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो
मातर्येवं चकार प्रसृततमगुणान् बाललीलाविलासान् ।
हत्वा वत्सप्रलम्बद्विविदबकखरान् गोपबृन्दं जुगोप
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ८ ॥
कृष्णाराधाष्टकं प्रातरुत्थाय प्रपठेन्नरः ।
य एवं सर्वदा नूनं स प्राप्नोति परां गतिम् ॥ ९ ॥
इति श्रीरघुनाथचार्य विरचितं श्रीराधाकृष्णाष्टकम् ।
