श्री श्यामला अष्टोत्तरशतनाम स्तोत्रम् – २

श्री श्यामला अष्टोत्तरशतनाम स्तोत्रम् – २

अस्य श्रीश्यामलाष्टोत्तरशतनामस्तोत्र महामन्त्रस्य, महाभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीमातङ्गीश्वरी देवता, आदिशक्तिरिति बीजं, सर्वकामप्रदेति शक्तिः, परञ्ज्योतिः स्वरूपिणीति कीलकं, श्यामलाष्टोत्तरशतनाम जपे विनियोगः ।

नमस्तेऽस्तु जगद्धात्रि मातङ्गीश्वरि ते नमः ।
श्यामले जगदीशाने नमस्ते परमेश्वरी ॥ १ ॥

नमस्तेऽस्तु महाकृष्णे सर्वभूषणसम्युते ।
महादेवि महेशानि महादेवप्रिये नमः ॥ २ ॥

आदिशक्तिर्महाशक्तिः पराशक्तिः परात्परे ।
ब्रह्मशक्ते विष्णुशक्ते शिवशक्ते नमो नमः ॥ ३ ॥

नमोऽमृतेश्वरी देवि नमः परशिवप्रिये ।
ब्रह्मरूपे विष्णुरूपे शिवरूपे नमोऽस्तु ते ॥ ४ ॥

सर्वकामप्रदे तुभ्यं सर्वसिद्धिप्रदे नमः ।
सर्वसम्पत्प्रदे नॄणां सर्वराजसुशङ्करि ॥ ५ ॥

स्त्रीवशङ्करि वन्दे त्वां नमो नरवशङ्करि ।
देवमोहिनि सेवे त्वां सर्वसत्त्ववशङ्करि ॥ ६ ॥

नमः शाङ्करि वाग्देवि सर्वलोकवशङ्करी ।
सर्वाभीष्टप्रदे नित्ये नमो मातङ्गकन्यके ॥ ७ ॥

नमो नीलोत्पलप्रख्ये नमो मरकतप्रभे ।
नीलमेघप्रतीकाशे इन्द्रनीलसमप्रभे ॥ ८ ॥

नमश्चण्ड्यादिदेवेशि दिव्यनारीवशङ्करी ।
नमस्ते मातृसंस्तुत्ये जये ते विजये नमः ॥ ९ ॥

भूषिताङ्गि महाश्यामे महारामे महाप्रभे ।
महाविष्णुप्रियकरी सदाशिवमहाप्रिये ॥ १० ॥

रुद्राणी सर्वपापघ्नी कामेश्वरि नमोऽस्तु ते ।
शुकश्यामे लघुश्यामे राजवश्यकरी नमः ॥ ११ ॥

वीणाहस्ते नमस्तुभ्यं नमो गीतरते सदा ।
सर्वविद्याप्रदे तुभ्यं नमः शक्त्यादिपूजिते ॥ १२ ॥

भजेऽहं वेदगीते त्वां देवगीते नमो नमः ।
शङ्खकुण्डलसम्युक्ते बिम्बोष्ठी त्वां भजाम्यहम् ॥ १३ ॥

रक्तवस्त्रपरीधाने गृहीतमधुपात्रके ।
मधुप्रिये नमस्तुभ्यं मधुमांसबलिप्रिये ॥ १४ ॥

रक्ताक्षी घार्णमानाक्षी स्मितेन्दुमुखि संस्तुते ।
कस्तूरीतिलकोपेते चन्द्रशीर्षे जगन्मये ॥ १५ ॥

नमस्तुभ्यं महालक्ष्मि कदम्बवनसंस्थिते ।
महाविद्ये नमस्तुभ्यं स्तनभारविराजिते ॥ १६ ॥

हरहर्यादिसंस्तुत्ये स्मितास्ये त्वां भजाम्यहम् ।
नमः कल्याणदे पुंसां कल्याणि कमलालये ॥ १७ ॥

महादारिद्र्यसंहर्त्री महापातकदाहिनी ।
महाज्ञानप्रदे नॄणां महासौन्दर्यदे नमः ॥ १८ ॥

महामुक्तिप्रदे वाणि परञ्ज्योतिः स्वरूपिणि ।
चिदानन्दात्मिके तुभ्यं नमोऽलक्ष्मीविनाशिनि ॥ १९ ॥

भक्ताऽभयप्रदे नित्यमापन्नाशिनि ते नमः ।
नमस्तेऽस्तु सहस्राक्षि सहस्रभुजधारिणी ॥ २० ॥

मह्याः शुभप्रदे तुभ्यं भक्तानां मङ्गलप्रदे ।
नमोऽस्त्वशुभसंहर्त्री भक्ताष्टैश्वर्यदे नमः ॥ २१ ॥

नमो देव्यै नमस्तुभ्यं नमस्ते मुखरञ्जिनी ।
जगन्मातर्नमस्तुभ्यं नमस्ते सर्वनायिके ॥ २२ ॥

नमः परापरकले परमात्मप्रिये नमः ।
नमस्ते राजमातङ्गी नमस्तुभ्यं नमोऽस्तु ते ॥ २३ ॥

फलश्रुतिः –
नाम्नामष्टोत्तरं पुण्यं श्यामलाया इतीरितम् ।
प्रजपेद्यो नरो भक्त्या सर्वपापैर्विमुच्यते ॥ २४ ॥

व्याचष्टे सर्वशास्त्राणि महावागीश्वरो भवेत् ।
सकृच्छ्रवणमात्रेण गुह्याद्द्वे च चतुष्टयम् ॥ २५ ॥

सर्वलोकान् वशीकुर्यात् कान्त्या विष्णुसमो भवेत् ।
लभते महतीं लक्ष्मीं दैवतैरतिदुर्लभाम् ॥ २६ ॥

अणिमादिगुणैश्वर्यं स लभेच्छीघ्रमेव हि ।
जातिस्मृतिर्भवेच्छीघ्रं सर्वविद्यानिधिर्भवेत् ॥ २७ ॥

प्राप्नोति परमं ज्ञानं सर्वदा सुखमश्नुते ।
सर्वत्र स भवेत्पूज्यः सर्वत्र विजयी भवेत् ॥ २८ ॥

भूतप्रेतपिशाचादि भयं तस्य न जायते ।
महतीं कीर्तिमाप्नोति लभेद्योगमनुत्तमम् ॥ २९ ॥

घटिकापादुकाद्यष्टसिद्धिनाथो भवेदयम् ।
मङ्गलानि भवेन्नित्यं स महापण्डितो भवेत् ॥ ३० ॥

लभते महदायुष्यं लोकसम्मोहनो भवेत् ।
लभेदन्ते महादेवरूपं नात्र विचारणा ॥ ३१ ॥

इति श्री श्यामलाष्टोत्तरशतनाम स्तोत्रम् ॥


लेखक के बारे में: टीम त्रिलोक

त्रिलोक , वैदिक ज्योतिष, वास्तु शास्त्र और धार्मिक अध्ययनों के प्रतिष्ठित विषय विशेषज्ञों (Subject Matter Experts) की एक टीम है। प्राचीन ज्ञान और आधुनिक संदर्भ के समन्वय पर केंद्रित, त्रिलोक टीम ग्रहों के प्रभाव, आध्यात्मिक अनुष्ठानों और सनातन धर्म की परंपराओं पर गहन और शोध-आधारित जानकारी प्रदान करती है।

प्रामाणिकता के प्रति समर्पित, इस टीम में प्रमाणित ज्योतिषी और वैदिक विद्वान शामिल हैं, जो यह सुनिश्चित करते हैं कि प्रत्येक लेख शास्त्र-सम्मत और तथ्यपरक हो। सटीक राशिफल, शुभ मुहूर्त और धार्मिक पर्वों की विस्तृत जानकारी चाहने वाले पाठकों के लिए त्रिलोक एक विश्वसनीय और आधिकारिक स्रोत है।

कैटेगरी

आपके लिए रिपोर्ट्स

    अनुशंसित पूजा

      Ask Question

      आपके लिए खरीदारी

      आपके लिए रिपोर्ट्स

      त्रिलोक ऐप में आपका स्वागत है!

      image