
1284
कृष्ण स्तोत्र
श्रीमद्वल्लभसागरसमुदितकुन्दौघजीवदो नरः ।
विश्वसमुद्धृतदीनो जगति श्रीविठ्ठलो जयति ॥ १ ॥
मायावादः कुलनाशनकरणे प्रसिद्धदिननाथः ।
अपरःकृष्णावतारो जगति श्रीविठ्ठलो जयति ॥ २ ॥
श्रीमद्गिरिधरपदयुगसेवनपरिनिष्ठहृत्सरोजश्च ।
वंशस्थापितमहिमा जगति श्रीविठ्ठलो जयति ॥ ३ ॥
श्रीमद्गोकुलहिमरुचिरुचिकरलब्धैकसच्चकोरपदः ।
परिलसदद्भुतचरितो जगति श्रीविठ्ठलो जयति ॥ ४ ॥
शारदचन्द्रसमानःशिशिरीकृतदग्धसकललोकः ।
विद्याजितसुरवन्द्यो जगति श्रीविठ्ठलो जयति ॥ ५ ॥
गोवर्धनधरमिलनत्यागविधानेऽतिकातरः सुभगः ।
प्रकटितपुष्टिजभक्तिर्जगति श्रीविठ्ठलो जयति ॥ ६ ॥
यज्ञविधायकचेताः सकलप्रतिपक्षसिन्धुवडवाग्निः ।
कुण्डलशोभितगल्लो जगति श्रीविठ्ठलो जयति ॥ ७ ॥
पालितभक्तसमाजो व्रजभुवि विशदीकृतैकनवरत्नः ।
वासितगोकुलनगरो जगति श्रीविठ्ठलो जयति ॥ ८ ॥
नित्यं स्तोत्रवरं तद्भक्तिनियुक्तः पठन् स्वकीयाष्टकम् ।
परमपदं लभते स च यः किल निष्ठोऽपि विठ्ठलस्येदम् ॥ ९ ॥
इति श्रीमद्देवकीनन्दनात्मजश्रीरघुनाथजीकृतं श्री विठ्ठल स्तोत्रम् ।
